शिवरक्षा स्तोत्रं,
चरितं देवदेवस्य महादेवस्य पावनम्।
अपारं परमोदारं चतुर्वर्गस्य साधनम्।bd।(१)
गौरी-विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः।bd।(२)
गङ्गाधरः शिरः पातु भालमर्द्धेन्दु-शेखरः।
नयने मदन-ध्वंसी कर्णौ सर्प-विभूषणः।bd।(३)
घ्राणं पातु पुराराति-र्मुखं पातु जगत्पतिः।
जिह्वां वागीश्वरः पातु कन्धरां शिति-कन्धरः।bd।(४)
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्व-धुरन्धरः।
भुजौ भूभार-संहर्त्ता करौ पातु पिनाकधृक्।bd।(५)
हृदयं शङ्करः पातु जठरं गिरिजापतिः।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः।bd।(६)
सक्थिनी पातु दीनार्त्त-शरणागत-वत्सलः।
ऊरू महेश्वरः पातु जानुनी जगदीश्वरः।bd।(७)
जङ्घे पातु जगत्कर्त्ता गुल्फौ पातु गणाधिपः।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः।bd।(८)
एतां शिव-बलोपेतां रक्षां यः सुकृती पठेत्।
स भुक्त्वा सकलान् कामान् शिव-सायुज्यमाप्नुयात्।bd।(९)
ग्रह-भूत-पिशाचाद्यास्त्रैलोक्ये विचरन्ति ये।
दूरादाशु पलायन्ते शिव-नामाभिरक्षणात्।bd।(१०)
अभयङ्कर-नामेदं कवचं पार्वतीपतेः।
भक्त्या बिभर्त्ति यः कण्ठे तस्य वश्यं जगत् त्रयम्।bd।(११)
इमां नारायणः स्वप्ने शिवरक्षां यथादिशत्।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत्।bd।(१२)
इति श्रीयाज्ञवल्क्य-प्रोक्तं शिवरक्षा स्तोत्रं सम्पूर्णम्।
Singer – Varsha Shrivastava
Music – Vijay Nanda
9082787510